ऋतूनां कुसुमाकरः!

श्रीमद्भावद्गीतायां श्रीकृष्णस्य मुखारविन्देन निर्गता संदेशोस्ति ऋतूनां कुसुमाकरः, सः स्वयमेव कुसुमाकरः-वसन्तः-ऋतुराजश्च। भारतीय वाङ्ग्मये ऋतूनां वर्णने वसन्त ऋतोः वर्णनं महत्वप्रतिपादनन्च अपेक्षाकृतः अधिकः। वासंतिककालेस्मिन् सर्वत्र प्रकृतेः मनोहारि दर्शनं भवति मन प्रफुल्लित भवतीति। वने-उद्याने-फलारामे सर्वत्र मनोहारि विभिन्न वर्णानां सुन्दराणि पुष्पाणि-फलानि विकसन्ति, तेषां सौन्दर्येण नीरस जनानामपि चित्तं आह्लादयन्ति। क्वचित् पुष्पाणि तेषां सुगन्धेन क्वचित् तेषां मनोहारि स्वरुपेण आकर्षयन्ति जनानाम्। पुष्पैव वृक्षाणां लतानां वा पुनरोत्पदक बीजानां निर्माणं प्रसारपि कुर्वन्ति अतः वसन्तस्य एकः नामः कुसुमाकरः। न केवलं वृक्ष-लता-पुष्प-फल अपितु कोकिला, मयूराः तथा अन्यान्य खगाः कलरवं कुर्वन्ति आनन्देन कूजन्ति च एतस्मिन् काले।
प्रायः प्रत्येक संस्कृत ग्रन्थे ऋतुवर्णनं प्राप्यन्ते, वसन्तेस्मिन किमर्थं संस्कृत कवीनां वसन्तरसं न श्रवणीयम्:
वाल्मीकीये रामायणे किष्किन्धाकाण्डे रामलक्ष्मणौ ऋष्यमूक पर्वत मार्गे स्थित पम्पा सरोवरे वसन्त समये प्राप्तौ। वैदेही रावणेन अपहृता, तर्हि रामः शोकसन्तप्तः जातः। महर्षि वाल्मीकि, शोकातुररामस्य मुखारविन्देन वर्णनं करोति –
सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः।
गन्धवान्सुरभिर्मासो जातपुष्पफलद्रुमः॥ 4.1.10॥
-हे सौमित्र (लक्ष्मण)! अस्मिन् काले मन्मथः प्रचुरः अस्ति (तर्हि) सुखकर्त्री अनिलः वहति। अनिलः पुष्प-फल-वृक्षाणां सगन्धा जाता अस्मिन् सुरभिमासे (वसन्ते)।
पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम्।
सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव॥ 4.1.11॥
-हे सौमित्र ! पश्य पुष्पवान वृक्षाः पुष्पवर्षाम् कुर्वन्ति यथा (वर्षाकाले) जलपूर्ण मेघात् जलं वर्षति।
अमी पवनविक्षिप्ता विनदन्तीव पादपाः।
षट्पदैरनुकूजन्तो वनेषु मधुगन्धिषु॥ 4.1.18॥
-एताः वृक्षाः वात-विक्षेपेन गुञ्जन्ति, वने च भ्रमराः मधुगन्धिताः कूजन्ति।
अहा ! कवेः भावचित्रः वसन्तसौन्दर्य वर्णने अद्भुता जाता, परन्तु न केवलं सौन्दर्ये, वसन्त ऋतौ मानव मनोऽपि कामभावेन परिपूर्णः भवति। इयं चर्चायां यदि महाकवि कालिदासस्य चर्चा न भवति इत्यसंभवः। महाकवि अपि वसन्त वर्णने स्त्रीणां सज्जामनोदशाच वर्णयति:
कुसुम्भरागारुणितैर्दुकूलैर्नितम्बबिम्बानि विलासिनीनाम् ।
तन्वंशुकैः कुङ्कुमरागगौरैर्अलङ्क्रियन्ते स्तनमन्डलानि ॥
-कुसुम्भस्य रागेण रक्ता विलासिनीनां नितंबबिम्बानि विलासिनीनां वस्त्रैः कूलन्ति, रक्त्गौर कुङ्कुमकेसर रागेण (विलासनीनां) स्तन्मण्डलस्य अलङ्करणं क्रियन्ते।
स्तनेषु हाराः सितचन्दनार्द्राः भुजेषु सङ्गं वलयाङ्गदानि ।
प्रयान्त्यनङ्गातुरमानसानां नितम्बिनीनां जघनेषु काञ्च्यः॥
-(विलासनीनां) श्वेतचन्दनै आर्द्राः स्तनेषु मुक्ताहाराः, बाहुषु कटककेयूराणि सुशोभिताः। कामभावेन पीडितं तासां नितंबनीनां जङ्घा प्रदेशे काञ्च्यः सङ्गः प्राप्नुवन्ति।
उच्छ्वासयन्त्यः श्लथबन्धनानि गात्राणि कंदर्पसमाकुलानि ।
समीपवर्तिष्वधुना प्रियेषु समुत्सुका एव भवन्ति नार्यः॥
-वसन्तकाले निकतस्थेषु प्रियेषु उत्कण्ठायां, तेषां गात्राणि शिथिलबन्धना जाता, ते कामपीडिता श्वासोच्छ्वासं कुर्वन्ति।
कुन्दैःसविभ्रमवधूहसितावदातैः उद्योतितान्युपवनानि मनोहराणि ।
चित्तं मुनेरपि हरन्ति निवृत्तरागमं प्रागेव रागमलिनानि मनांसि यूनाम्॥
-विभ्रमसहितानि रमणीहास्यानि, मनोहारि उपवनानि, रागेण निवृत्ता जाता मुनेरपि चित्तं अपहरन्ति, तेषां मनान्सि रागेण मलिना भवन्ति।
शृङ्गारशतके भर्तृहरि अपि वदति वसन्तमहिमा-
पान्थस्त्रीविरहानलाहुति कथा मातन्वतीमञ्जरी, माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते।
अप्येते नवपाटलापरिमलप्राग्भारपाटच्चरा, वान्ति क्लान्तिवितानतानवकृताः श्रीखण्डशैलानिलाः॥
-अहो ! वसन्तकालेस्मिन् पथिकानां विरहिणां वियोगाग्निं प्रज्वलिता मञ्जरी, आम्रवृक्षेषु उत्कण्ठापूर्णा कोकिला अवलोक्यति। मलयाचल पवन नवीन पलाश पुष्पगन्ध सहिता मार्गश्श्रमः हरति।
वृहद्संस्कृतवाङ्ग्मये ऋतुराजवसन्तप्रयोगाः प्रचुराः, तेन पठने-पाठने कामोद्दीपनं जायते अतः सावधानतया सुस्थिर मनसा तेषु पठनीयम् 🙂 यद्यपि ‘श्रीर्हरति मुनेरपि मानसं वसन्तः’।
विकसितसहकारभारहारिपरिमलपुञ्जितगुञ्जित द्विरेफ:।
नवकिसलयचारुचामरश्रीर्हरति मुनेरपि मानसं वसन्तः॥



लेखक: अलंकार शर्मा

शिक्षा: गणित स्नातक, स्नातकोत्तर कंप्यूटर विज्ञान,
आचार्य – फलित ज्योतिष

संयोजन: पं. बैजनाथ शर्मा प्राच्य विद्या शोध संस्थान का कार्यभार
सम्पादक: प्राच्य मञ्जूषा
इस लेख को साझा करने के लिए संक्षिप्त URL:

Leave a Reply

Your email address will not be published. Required fields are marked *