वेदव्यास इवापरस्समुदित: कालैडके केरले । यो वेदांश्चतुरो बभार चतुर: शिष्यैश्चतुर्भिर्मठै: ॥
तेने येन च भाष्यवाक्प्रतिपदं द्वैतप्रपञ्चापहा । वन्द्योऽयं परमार्थदर्शनगुरु: श्रीशङ्करश्शङ्कर: ॥
प्रतिभाधृक्कविस्साक्षात्कविश्च प्रतिभानदृक् । बभूव शङ्कराचार्य: ज्ञानमूर्त्तिर्जर्गुरु: ॥
आचार्यश्रीशङ्करभगवत्पादस्य जन्मस्थान-जन्मसमयादिविषये मतवैभिन्न्यं दृश्यते । चतुर्दशशतके विरचितं माधवीयशङ्करविचयम्, पञ्चदशशतके प्रणीतं चिद्विलासीयशङ्करविजयम्, सप्तदशशतके विरचितं केरलीयशङ्करविजयमिति ग्रन्थत्रयं श्रीशङ्कराचार्यस्य जीवनचरित्रं विवृणोति । एतदतिरिच्य बहव: समालोचका: विविधेषु समालोचनात्मकग्रन्थेष्वपि शङ्करचरित्रं प्रतिपादयन्ति । दण्डीस्वामिश्रीनिगमबोधतीर्थमहोदयेन रचितं ‘श्रीशङ्कराचार्यचरितम्’ इति महाकाव्यं शङ्करजीविनजीविकाप्रतिबोधकं भवति ।
अद्वैतवेदान्तस्य सुप्रतिष्ठितस्यास्य संन्यासिन: सिद्धाचार्यस्य जन्म दक्षिणभारते मालबारक्षेत्रे केरलराज्ये कालाडिनामके ग्रामे अत्रिगोत्रीय-कृष्णयजुर्वेदीयतैत्तिरीयशाखासम्बद्धे एकस्मिन् नम्बुदिरी(नामुपुद्रि)ब्रह्मणपरिवारेऽभवत् । केरलपरम्परानुसारेण अस्य गृहं ’कैप्पल्लि हल्लम“ इत्युच्यते । केरले श्रीमद्वृषसंज्ञकगिरौ पुर्णानदीपुण्यतटेऽस्य जन्माभूदिति प्रमाणं श्रीविद्यारण्यविरचिते श्रीमच्छङ्कर-दिग्विजयाख्ये ग्रन्थे प्राप्यते । यथा :
ततो महेश: किल केरलेषु श्रीमद्वृषाद्रौ करुणासमुद्र: । पूर्णानदीपुण्यतटे स्वयम्भूलिङ्गात्मनाऽनङ्गधगावीरासीत् ॥१
परन्त्वाचार्य आनन्दगिरिमहोदय: शङ्करविजयनामके ग्रन्थे आचार्यस्य शङ्करस्य जन्मस्थानं दक्षिणभारते तमिलप्रदेशे चिदम्बरनामके सुप्रसिद्धे तीर्थक्षेत्रेऽभूदिति प्रतिपादयति । यथा –
ततस्सर्वात्मको देव: चिदम्बरपुराश्रित: । आकारालिङ्गनाम्ना तु विख्यातोऽभून्महीतले ॥
तत्र विद्वन्महेन्द्रस्य कुले द्विजगणाश्रिते । जातस्सर्वज्ञनाम्ना तु कश्चिद् द्विजकुलेश्वर: ॥२
स्कन्दपुराणे षोडशाध्याये नवमांशे शिवरहस्यवर्णनावसरे शङ्करस्य जन्म ’शशल“नामके स्थानेऽभुदित्युच्यते । वस्तुत: शङ्कराचार्यस्य पितरौ मूलत: ’पन्नियर“ अथवा ’शशल“ इति ग्रामवास्तव्यावास्तामिति समालोचका: वदन्ति, यौ कालान्तरे कालाडिग्राममागतवन्तौ । परन्तु आधुनिकशोधसन्दर्भेषु प्रायश: शङ्कराचार्यस्य जन्म केरलराज्यस्य कालाडिनामके ग्राम एवाभूदिति मतं पोषयन्ति समालोचका: । ’कालाडि“ इति ग्राम: भारतवर्षस्य केरलराज्ये ’अलुवाय“ अथवा ’पेरियारु“नाम्ना विज्ञाताया: ’चूर्णा“ ’पूर्णा“ वा नद्या: तटे विद्यमानान्नगरात् १० कि.मि. दूरे वर्तते । कालाडिग्राम एव शिवगुरोर्निवासभूमिस्तथा विद्याधिराज: शिवगुरो: पिताऽऽसीदित्यत्रोच्यते श्रीमच्छङ्करविजये –
तस्येश्वरस्य प्रणतार्त्तिहर्तु:
प्रसादत: प्राप्तनिरीतिभाव: ।
कश्चित्तदभ्याशगतोऽग्रहार:
कालड्यभिख्योऽस्ति महान्मनोज्ञ: ॥
कश्चिद्विपश्चिदिह निश्चलधीर्विरेजे
’विद्याधिराज“ इति विश्रुतनामधेय: ।
रुद्रो वृषाद्रिनिलयोऽवतरीतुकामो
यत्पुत्रमात्मपितरं समरोचयत्स: ॥
पुत्रोऽभवत्तस्य पुरात्तपुण्यै:
सुब्रह्मतेजा: ’शिवगुर्व“भिख्य: ।
ज्ञाने शिवो यो वचने गुरुस्त-
स्यान्वर्थनामा कृतलब्धवर्ण: ॥३
श्रीशङ्कराचार्यवंशजास्सर्वेऽपि नित्यनैमित्तककाम्यकर्मानुष्ठायिन: वेदनिष्ठा: ब्रह्मणा एव आसन् । एवमेतादृशे ब्रह्मणपरिवारे ७८८ ख्राीष्टाब्दे श्रीमच्छङ्कराचार्य: धरातलमवततार । अस्य जन्मकालविषये विवादो वर्तते ।
श्रीशङ्कराचार्यस्य पितुर्नाम शिवगुरु:, माता च विशिष्टा वा आर्याम्बा४ । रूपेषु मार: विद्यासु वृद्ध: धनिनां पुरस्सर: विनयी शिवगुरु:, क्षमया वसुन्धरा च दम्पती विवाहस्य बहुकालातीतेऽपि पुत्रं न प्रापतु: । तत: महत्तपसा निष्ठया च कृतया शिवाराधनया आर्याम्बा गर्भं दधार । एवं गतेषु दिनेषु शुभे लग्ने शुभग्रहयुते शुभग्रहदृष्टे च समये सूर्यादौ स्वतुङ्गस्थिते अर्थात् सूर्ये मेषस्थे कुजे भौमे मकरस्थे रविसुते मन्दे तुलास्थे गुरौ च केन्द्रे चतुर्थाद्यन्यतमराशिस्थे शिवगुरोर्भार्या सती यथा पार्वती स्कन्दं जनयामास तथैव कुमारं श्रीशङ्कराचार्यं सुषुवे । तदुक्तं –
लग्ने शुभे शुभयुते सुषुवे कुमारं
श्रीपार्वतीव सुखिनी शुभवीक्षिते च ।
जाया सती शिवगुरोर्निजतुङ्गसंस्थे
सूर्ये कुजे रविसुते च गुरौ च केन्द्रे ॥५
श्रीशङ्कराचार्यचरिते आचार्यस्य जन्मसमयविषये एवमुक्तं –
वैशाखमासस्य च शुक्लपक्षे शुभे दिने बाणतिथौ च भौमे ।
योगीश्वर: प्रादुरभूद् दयालु: श्रीशङ्करो लोकशिवङ्करोऽसौ ॥६
जातस्य तस्य शिशो: शरीरस्य प्रत्येकमङ्गं शुभचिह्नन्यलक्ष्यन्त । यथोक्तं कविना –
नागेनोरसि चामरेण चरणे बालेन्दुना फालके
पाण्योश्चक्रगदाधनुर्डमरुकैर्मूर्ध्नि त्रिशूलेन च ।
तत्तस्याद्भुतमाकलय्य ललितं लेखाकृते लाञ्छितं
चित्रं गात्रममंस्त तत्र जनता नेत्तैर्निमेषोज्झितै: ॥७
श्रीशङ्कराचार्य: भगवतश्शङ्करस्य साक्षादवतार इत्युच्यते । तेन सह अन्येऽपि देवगणा: क्रमश: विष्णु: प्रधानशिष्यपद्मपादरूपेण, पवन: हस्तामलकरूपेण, ब्रह्मा सुरेश्वराचार्य (मण्डनमिश्र) रूपेण बृहस्तपतिरानन्दगिरिरूपेण, सरस्वती मण्डनमिश्रस्य स्त्रीरूपेण च प्रादुरभूवनिति उपाख्यानानि प्राप्यन्ते । केचन श्रीशङ्कराचार्य: दुर्वाससोऽभिशापात् सरस्वत्या दर्पखण्डनार्थं जात इति वदन्ति । एकदा ब्रह्मलोके ऋषिगणा: ब्रह्मणस्समीपे वेदपाठं कुर्वन्त आसन् । तस्मिन्नवसरे दुर्वाससा जातां त्रुटिं श्रुत्वा सरस्वती उपहासं चकार । तेन क्रुद्ध: दुर्वासर्षि: तस्यै अभिशापमदात् । तत: ज्ञातस्वदोषा सरस्वती शापमुक्त्यर्थं दुर्वाससे न्यवेदयत् । देवगणानामपि निवेदनेन सन्तुष्ट: दुर्वासा एवमुवाच यत् – स्त्रीरूपेण जाताया: सरस्वत्या: शापमुक्ति: शङ्करभगवत्पादस्य दर्शनेनैव भूपृष्ठे भविष्यतीति । एषा लोककथा श्रूयते ।
शुक्लयजुर्वेदीयषडङ्गरुद्राष्टाध्यायिनामके महादेवस्तुतिग्रन्थे भगवत: श्रीशङ्करस्य शतं नामानि प्रोक्तानि सन्ति । तेषु ’व्युप्तकेश:“ इति नाम उल्लिखितम्, यस्यार्थ: मुण्डितकेश इति । एवं व्युप्तकेशावतार आचार्यशङ्कर एवेति भक्तानां विश्वास: । स्कन्दपुराणे षोडशाध्याये नवमांशे शिवरहस्ये – ’मन्दरजातं देवेषु कलावपि तपोधनं केरलेषु“, ’विप्र जनयामि महेश्वरि’ इति ; वायुपुराणे ’चतुर्भि: सह शिष्यैस्तु शङ्करोऽवतरिष्यति’ इति ; भविष्यपुराणे ’कल्पादौ द्विसहस्रान्ते लोकानुग्रहकाम्यया । चतुर्भिस्स शिष्यैस्तु शङ्करोऽवतरिष्यति ॥’ इत्यादिभि: सन्दर्भै: श्रीशङ्कराचार्यभगवत्पाद: भगवत: श्रीशङ्करस्यावतार इति सूच्यते ।
पादटिप्पणी
१) श्रीमच्छङ्करदिग्विजयम् – २/१
२) शङ्कर का अद्वैत दर्शन – पृ.१७
३) श्रीमच्छङ्करविजयम् – २/३-५
४) शिवाराधनधन्येषु तेषु शिवगुरुर्द्विज: । अभूदशेषशास्त्रज्ञ: प्रभुपूजापरायण: ॥
बभुव तस्य विप्रस्य भार्या धर्मानुसारिणी । आर्यम्बेति पवित्राख्या पतिचित्तानुविर्तनी ॥
(श्रीशङ्कराचार्यचरितम् – १/१९-२०)
५) श्रीमच्छङ्करविजयम् – २/७१
६) श्रीशङ्कराचार्यचरितम् – १/३९
७) श्रीमच्छङ्करविजयम् – २/९२