संस्कृते अङ्कानांसंख्यानांच प्रयोगः
संस्कृत तकनीकी ग्रन्थेषु यथा ज्योतिष शास्त्रे, शुल्ब सूत्रे, आयुर्वेदे प्रायः अङ्कानां संख्यानां च प्रयोगे एका विशिष्टा शैली उपयुज्यते । अद्य एतोपरि चर्चा तथा उदाहरेण अवगन्तुं प्रयासं करिष्यामः ।
संस्कृतग्रन्थेषु गणितसंबन्धिने बहुधा छन्दप्रयोगः अभवत्, पद्यरुपाः अस्माकं ग्रन्थाः । छन्दबाहुल्यः संस्कृत परम्परायाः विशिष्टता अस्ति, बहवः प्रकारकाः छन्दाः भवन्ति । गायत्रीत्रिष्टुप्अनुष्टुप इत्यादि विभिन्न छन्दानां नामाः । अङ्कानां सङ्ख्यानां प्रयोगः संस्कृत ग्रन्थेषु शब्द-वर्ण रूपेण गेय छन्देषु अभवत् । विषयस्य ज्ञाता ततर्थाः ज्ञातुं शक्नुवन्तः सारल्येन । द्वे प्रकारके प्रयोगाः मिलतः ।
प्रथम प्रकार प्रयोगः कटपयादि व्यवस्थायां वर्णैः अङ्क ज्ञानमस्ति । अत्र एकेन सूत्रेण वर्णस्य अङ्कः निश्चितः अवर्गे शून्यं कादि नव टादि नव पादि पञ्च याद्यष्टौ नञ शून्यम् अर्थात्
अवर्गे शून्यं – ‘अ’ वर्गस्य वर्णानां शून्य (0) अङ्कः निश्चितमस्ति । ‘अ’ वर्गे अ,इ,उ,ऋ,लृ,ए,ऐ,ओ,औ वर्णाः सन्ति ।
कादि नव – ‘क’ आदि वर्णानां एकतः नव अङ्काः निश्चितमस्ति । यथा क=1, ख=2, ग=3, घ=4……झ=9 ।
टादि नव – ‘ट’ आदि वर्णानां एकतः नव अङ्काः निश्चितमस्ति । यथा ट=1, ठ=2, ड=3, ढ=4……ध=9 ।
पादि पञ्च – ‘प’ आदि वर्णानां एकतः पञ्च अङ्काः निश्चितमस्ति । यथा प=1, फ=2, ब=3, भ=4, म=5 ।
याद्यष्टौ – ‘य’ आदि वर्णानां एकतः अष्ट अङ्काः निश्चितमस्ति । यथा य=1, र=2, ल=3, व=4,…….ह=8 ।
पुनः नञ शून्यम् – ‘न’ ‘ञ’ वर्णयोः च शून्यमङ्कं अधिकृतमस्ति ।
एतत् प्रकारेण प्रत्येक वर्णस्य अङ्कः निश्चितमस्ति । एतदरिक्तं एक पृथक् सूत्रः अस्ति – अङ्कानाम् वामतो गतिः – अर्थात् यर्हि वर्णांनां अङ्केषु पठने तेषां प्रवाहः दक्षिणतः वाम भवति । ध्यायतु वर्णोपरि मात्राणां कोऽपि प्रभावः न मन्यते ।
नज्ञावचश्च शून्यानि संख्या: कटपयादय:।
मिश्रे तूपान्त्यहल् संख्या न च चिन्त्यो हलस्वर:॥
एतौ द्वौ मूलसुत्रौ स्तः । सम्प्रति कमल शब्दस्य संख्यायां परिवर्तने सूत्रद्वयेन प्रथम सूत्रात् क=1, म=5, ल=3 तथाच द्वितीय सूत्रात् 351 संख्यायाः सिद्धिर्भवति । तथाविधं ‘चोदसि’ शब्दस्य परिणामः 786 ‘दानाय’ शब्दस्य च परिणामः 108 सिद्धिर्भवति ।
अत्र अस्य व्यवस्थायाः एकः प्रचलित प्रयोगः π (कस्मिन् वृत्तस्य व्यासतः परिध्यां अनुपातः) परिमाण ज्ञातुं एकः श्लोकः
गोपीभाग्यमधुव्रात शृङ्गिशोदधिसन्धिग ।
खलजीवितखाताव गलहालारसंधर ॥
साधारणतया निरीक्षणेन एषः श्रीकृष्णस्य प्रार्थना लगति – गोप्याः भाग्यं, मधु संहारक, गो (शृङ्गी) पालकः , उदधि निवासि, दुष्टदलन, स्कन्धे हलधारी, सर्प (कालिय) धारी अस्माकं रक्ष । इतोऽपि कटपयादि व्यवस्थातः निरीक्षणेन π मानः 31 अङ्कतः सिद्धिर्भवति सामान्य श्लोकेन ।
यथा गो=3, पी=1, भा=4, ग्य (य)=1, म=5, धु=9, व्रा (र)=2, त=6…… = 3.1415926……
एकः अन्य उदाहरणः ज्योतिष विद्यार्थीनां कृते ग्रहाणां महादशा वर्षाणि ज्ञातुम् .
इन1शशि2कुज3राहु4र्जीव5मन्द6ज्ञ7केतु8र्भृगुज9 इति नवानां कृत्तिकादिक्रमेण।
तनु10.नय11.सिनु12.जाया13.तोय14.धाया15.सटा16.सा17.नर18 इति विदुरब्दान् भास्करादिक्रमेण॥
अर्थात्
कृत्तिकादि नक्षत्रेण ग्रह महादशा क्रमेण 1आदित्यस्य, 2 चन्द्रस्य, 3 भौमस्य, 4 राहवः, 5 गुरवः, 6 शनैश्चरस्य, 7 बुधस्य, 8 केतवः, 9 शुक्रस्य भवन्ति। तेषां ग्रहाणां विंशोत्तरी दशा वर्षाणि आदित्यतः क्रमशः त=6, नु=0 अर्थात् 06 (अङ्कानां वामतोगति:), न=0, य=1 अर्थात् 10, सिनु = 07, जाया= 18, तोय = 16, धाया = 19, सटा = 17, सा = 7, नर = 20 भवन्ति।
[हिन्दी अनुवाद यहाँ है।]
(संस्कृते अङ्कानांसंख्यानांच प्रयोगः क्रमशः …)
लेखक: अलंकार शर्मा शिक्षा: गणित स्नातक, स्नातकोत्तर कंप्यूटर विज्ञान, आचार्य – फलित ज्योतिष संयोजन: पं. बैजनाथ शर्मा प्राच्य विद्या शोध संस्थान का कार्यभार सम्पादक: प्राच्य मञ्जूषा |
हिंदी के लेख वाला लिंक नहीं खुल रहा है और उपलब्ध नहीं है, ऐसा दिखा रहा है | कृपया ध्यान दें |
Both are opening up, I have checked it.
अहिबल कमल चक्र टंकारा। तरु्वर पवन यवन संहारा। अंगुली अक्षर चुटकी मात्रा। राम करें लक्ष्मण से वार्ता।
एक प्रश्न, “अङ्कानाम् वामतो गतिः” के विषय मे आपने कहा कि अंकों की गति (प्रवाह) बायीं ओर से होता है । क्या इसका मतलब यह नही हुआ कि जैसे ह्म हिन्दी मे लिखते है, बाये से दाये? इस तरह से क्या काम का अर्थ १५ नही हुआ ५१ की जगह?
कृप्या सम्झाये?
तरुण जी लेख पढ़ने के लिए धन्यवाद !
“वामतो गतिः” से अर्थ है “दायें से बाएं |
धन्यवाद,
अलंकार