पूर्ववर्ती : प्रथम: भाग:
वाल्मीकीये रामायणे भरतः श्रीरामस्य वनगमने तस्य लेशमात्रोऽपि प्रयत्नः नास्ति इति माता कौसल्यां प्रति विश्वास्यति । तदा भरतः सौगन्धरूपेण बहूनि अकर्तव्यानि पातकानि च वदति यथा – यस्य कारणाद् आर्यः श्रीरामः वनं गतः सः एतत्पापफलं प्राप्नोति, पूर्वभागतः अग्रे वयं पश्यामः –
१८.
देवतानां पित्रूणां च मातापित्रोस्तथैव च।
मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः॥२.७५.४६॥
देवतानां पित्रूणां च मातापित्रोस्तथैव च मा स्म कार्षीत्स शुश्रूषां – मातापित्रोः, पित्रूणां देवतानां च यः यथायोग्य शुश्रूषां न करोति (मातापित्रोः शुश्रूषा तेषां आज्ञापालनं, पित्रूणां शुश्रूषा जलान्नादि विधिविहित् श्राद्ध तर्पणादि) सः पापभागी भवति ।
१९.
अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम्।
दीर्घबाहुर्महावक्षा: यस्यार्योऽनुमते गतः॥२.७५.४८॥
अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् – सः पुत्रः यः स्वमातृ शुश्रूषां न करोति, अनर्थस्य मार्गे तिष्ठति अर्थात पापं करोति ।
२०.
आशामाशंसमानानां दीनानामूर्ध्वचक्षुषाम्।
अर्थिनां वितथां कुर्याद्यस्यार्योऽनुमते गतः॥२.७५.५०॥
अर्थिनां वितथां कुर्यात् – आशावानस्य आशां यः निष्फलं करोति, अर्थिनां (याचकानां/ दीनानां) आशां निष्फलं करोति अर्थात आशान्वितस्य, मनोकामना पूर्णं न करोति सः पापकर्ता भवतीति ।
२१.
मायया रमतां नित्यं परुषः पिशुनोऽशुचिः।
राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः॥२.७५.५१॥
मायया रमतां नित्यं – ये जनाः कठोर भाषाभाषी पिशुन: सूचक: अत एव अशुचि: अत एव अधर्मात्मा अत एव राज्ञो भीत: सन्मायया नानाकपटवेषेण नित्यं रमताम् ते सर्वे पापं कुर्वन्ति ।
२२.
ऋतुस्नातां सतीं भार्यामृतुकालानुरोधिनीम्।
अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः॥२.७५.५२॥
अतिवर्तेत दुष्टात्मा – ऋतुस्नान पश्चात् ऋतुकालानुरोधिनीं (ऋतुकालहेतुक पतिसंनिधिप्राप्तिमतीं) सतीं भार्यां यः दुष्टात्मा तस्त्वीकारं न करोति, तस्याः अनुरोधं न शृणोति सः पतिः पतितः भवति ।
२३.
सधर्मदारान्परित्यज्य परदारान्निषेवताम्।
त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः॥२.७५.५३॥
त्यक्तधर्मरतिर्मूढो – यः सहधर्मिणि स्वदारां, पाणिगृहीतीं परित्यज्य अधर्मे रतः परस्त्रीं भजति, चिन्तयति सः पापाचारी मन्यते ।
२४.
विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत्।
तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः॥२.७५.५४॥
विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मण – विप्रलुप्तजातस्य (अन्नाद्यदानेन प्रनष्टसन्तानस्य स्त्रीद्वेषाद्वा तथाभूतस्य), यद्वा विप्रलुप्ता विवर्जिता जातापत्या जाया येन विच्छिन्नसन्तानस्येति सः पापी भवति ।
२५.
पानीयदूषके पापं तथैव विषदायके।
यत्तदेकस्स लभतां यस्यार्योऽनुमते गतः॥२.७५.५५॥
पानीयदूषके पापं तथैव विषदायके – यः दुष्टात्मा पानीये जले दूषणं करोति (कूपादिविघातके) अथवा कस्मै विषं ददाति सः पापं लभति ।
२६.
ब्राह्मणायोद्यतां पूजां विहन्तु कलुषेन्द्रियः।
बालवत्सां च गां दोग्धु यस्यार्यो ऽनुमते गतः॥२.७५.५६॥
ब्राह्मणायोद्यतां पूजां विहन्तु – ब्राह्मणाय पूजार्थं सज्ज सामग्र्याः पूजां वा विघ्नयति यः सः पापी ।
बालवत्सां च गां दोग्धु: – बालवत्सां शास्त्रोक्तदोहनाधिकं गां दोग्धुः अपि पापं प्राप्नोति ।
२७.
तुर्ष्णार्तं सति पानीये विप्रलम्भेन योजयेत्।
लभेत तस्य यत्पापं यस्यार्योऽनुमते गतः॥२.७५.५७॥
तुर्ष्णार्तं सति पानीये विप्रलम्भेन योजयेत् – तृषित जनानां गृहे विद्यमानेपि वञ्चनया अप्रयच्छन् पुरुषः पापं लभति ।
२८.
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः।
तस्य पापेन युज्येत यस्यार्योऽनुमते गतः॥२.७५.५८॥
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः – विवदमानेषु, वादिप्रतिवादिषु विवादं एकस्मिन् मार्गं जयोपायमाश्रित्य ब्रुवतस्तस्य पापेन युज्येतेति पापाचरणम् । सत्यपि सामर्थ्ये केवलं पश्यतः कलहप्रियः ।
इति !
हिन्दी भाषान्तर
वाल्मीकि रामायण में भरतजी श्रीराम के वनगमन में उनका (भरत का) कोई हाथ नहीं है यह माता कौसल्या को विश्वास दिलाते हैं । तब भरत (यह विश्वास दिलाने के लिए) बहुत सौगन्ध खाते हैं और बहुत से अकर्तव्य और पापकर्म बताते हैं जैसे कि – जिसके कारण श्रीराम वन को गए हैं उसे वैसा ही पाप लगे जैसे….. इत्यादि । लेख के पिछले भाग से आगे हम इस भाग में आगे देखते हैं —
१८.
देवतानां पित्रूणां च मातापित्रोस्तथैव च।
मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः॥२.७५.४६॥
देवतानां पित्रूणां च मातापित्रोस्तथैव च मा स्म कार्षीत्स शुश्रूषां – जो यथायोग्य माता-पिता, पितरों और देवताओं की शुश्रूषा नहीं करता है (जैसे माता-पिता की आज्ञा का पालन, पितरों को जल और अन्न, विधि अनुसार श्राद्ध-तर्पण इत्यादि से) नहीं करता वह पाप का भागी होता है ।
१९.
अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम्।
दीर्घबाहुर्महावक्षा: यस्यार्योऽनुमते गतः॥२.७५.४८॥
अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् – वह पुत्र जो अपनी माता की सेवा-शुश्रूषा नहीं करता है, अनर्थ के मार्ग पर होता है और पाप का भागी होता है ।
२०.
आशामाशंसमानानां दीनानामूर्ध्वचक्षुषाम्।
अर्थिनां वितथां कुर्याद्यस्यार्योऽनुमते गतः॥२.७५.५०॥
अर्थिनां वितथां कुर्यात् – जो किसी आशावान् की आशा को निष्फल करता है, किसी याचक या दीन की आशा को निष्फल करता है और उसकी मनोकामना को पूर्ण नहीं करता है वह पापकर्ता होता है ।
२१.
मायया रमतां नित्यं परुषः पिशुनोऽशुचिः।
राज्ञो भीतस्त्वधर्मात्मा यस्यार्योऽनुमते गतः॥२.७५.५१॥
मायया रमतां नित्यं – जो लोग कठोर भाषा बोलने वाले, चुगली करने वाले अतः अपवित्र, अधर्मात्मा और (इसी कारण से) राजा से भयभीत रहते हैं और अपनी माया से विभिन्न प्रकार के वेश बनाकर दूसरे लोगों को छलते हैं वे सभी पाप करते हैं ।
२२.
ऋतुस्नातां सतीं भार्यामृतुकालानुरोधिनीम्।
अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः॥२.७५.५२॥
अतिवर्तेत दुष्टात्मा – ऋतुस्नान के पश्चात, ऋतुकाल में अनुरोध करती हुई सती पत्नी को जो दुष्ट व्यक्ति स्वीकार नहीं करता, उसके अनुरोध को नहीं मानता/ सुनता, वह पतित और पापी होता है ।
२३.
सधर्मदारान्परित्यज्य परदारान्निषेवताम्।
त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः॥२.७५.५३॥
त्यक्तधर्मरतिर्मूढो – जो अपनी सहधर्मिणी और पाणिग्रहण की हुई पत्नी को छोड़कर अधर्म में लगा होता है और दूसरे की पत्नी का चिन्तन-विचार आदि करता है, वह पापी होता है ।
२४.
विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मणस्य यत्।
तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः॥२.७५.५४॥
विप्रलुप्तप्रजातस्य दुष्कृतं ब्राह्मण – जिस दुष्कर्म करने वाले ब्राह्मण की संतति न हो अर्थात जिसकी पत्नी के कोई पुत्र ना हो अन्नदान इत्यादि न करने से या स्त्री से द्वेष के कारण जिसके पुत्र ना हो वह भी पापी होता है ।
२५.
पानीयदूषके पापं तथैव विषदायके।
यत्तदेकस्स लभतां यस्यार्योऽनुमते गतः॥२.७५.५५॥
पानीयदूषके पापं तथैव विषदायके – जो दुष्टात्मा पीने के जल में दूषण करता है जैसे कूप/ तड़ाग इत्यादि में प्रदूषण करता है या किसी को विष देता है वह पाप का भागी होता है ।
२६.
ब्राह्मणायोद्यतां पूजां विहन्तु कलुषेन्द्रियः।
बालवत्सां च गां दोग्धु यस्यार्यो ऽनुमते गतः॥२.७५.५६॥
ब्राह्मणायोद्यतां पूजां विहन्तु – ब्राह्मण की पूजा के लिए जो सामग्री तैयार हो ऐसे में उस पूजा में जो विघ्न करता है वह पापी होता है ।
बालवत्सां च गां दोग्धु: – छोटे बछड़े वाली (अर्थात हाल की ब्याही हुई) गाय को (शास्त्रों के कहे से अधिक) दुहने वाला भी पाप ही प्राप्त करता है ।
२७.
तुर्ष्णार्तं सति पानीये विप्रलम्भेन योजयेत्।
लभेत तस्य यत्पापं यस्यार्योऽनुमते गतः॥२.७५.५७॥
तुर्ष्णार्तं सति पानीये विप्रलम्भेन योजयेत् – प्यासे जनों को (घर में) विद्यमान होने पर भी जो गलत वचन बोलकर पानी नहीं देता है वह पुरुष पापी होता है
२८.
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः।
तस्य पापेन युज्येत यस्यार्योऽनुमते गतः॥२.७५.५८॥
भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः – वादी और प्रतिवादी के विवाद में किसी एक मार्ग के आश्रित होकर (एक की ओर देखकर ही) जो बोलता है और पाप से युक्त होता है ।
इति !
सब सुंदर कथन!
🙏