इह सृष्टौ परमात्मनः निःश्वासरूपाः वेदराशयः आब्रह्मकीटपर्यन्तं सर्वेषां जीवानां प्राणीनां च अहर्निशं शुभमेव कल्पयन्ति अभिवृद्धिञ्च कारयन्ति ।
तत्र वेदशब्दः विद् धातोः घञ् प्रत्यये निष्पद्यते विद् ज्ञाने, विद, लाभे, विद् सत्तायाम्, विद् विचारणे, इति चतुर्भ्यः व्युत्पन्नो भवति । इष्टप्राप्तये अनिष्टपिरहाराय च लौकिकमुपायॆं यो वेदयति स एव वेदः इति । अतोच्यते –
सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे ।
विन्दति विन्दते प्राप्तौ श्यन्लुक्श्नमशोष्विदं क्रमात् ॥
मनुना प्रोक्तं यत् वेदाः अस्माकं पथप्रदर्शकाः जीवनविद्यायिकाः एकमात्रं शरणाश्च सन्ति । वेदाः एव धर्मस्य प्रतिपादकाः । वस्तुतस्तु सर्वेषां धर्माणां मूलं वेदाः । अतोच्यते –
वेदोऽखिलं धर्ममूलम् ।
प्राचीनकालादेव भारतवर्षोऽयं धर्मेण सदाचारेण संस्कृत्या च सकलस्यापि विश्वस्य श्रद्धाकेन्द्रमासीत्, सम्प्रति अस्त्येव । अयमेव भारतदेशः सर्वेषां वेदानां उद्गमभूमिः, येषां सदुपदेशीयपीयुषेण पाविताः सर्वे धर्माः । प्रवृतिनिवृतिलक्षणस्य द्विविधधर्मस्य मन्त्रब्राह्मणात्मकवेद एव गमकः । अतः उक्तम् – मन्त्रब्राह्मणयोर्वेदनामधेयम् । (आप.श्रौ.,२४/१/३१)
वेदप्रतिपादितं धर्ममनुतिष्ठन् मानवः इहलोके धार्मिकत्वेन आनुसङ्गिकी कीर्तिं परलोके च धर्मफलमुत्कृष्टं सर्गावपर्गादि सुखं च लभते । सर्वेषां धर्माणामादिस्रोतः वेदः संसारं ज्ञानेन प्रकाशयति। वेदस्य ज्ञानाभावे संसारे अन्धकारस्येव साम्राज्यं भविष्यति इत्यत्र नास्ति लेशोऽपि संशयः । यतः सर्वश्रेयः साधकः निखिलपुरुषार्थप्रापकः धर्मः वेदादेवाधिगन्तुं शक्यते । वेदमनधीत्य यो द्विजः अन्यत्र श्रमं विदधाति स इहलोके शुद्रमिति मनुते । यथा हि उक्तम् मनुना –
योऽनधीत्य द्वीजो वेदमन्यत्र कुरुते श्रमम् ।
सः जीवन्येव शुद्रत्वमाशु गच्छति सान्वयः ॥ (मनु, २.२६८)
वस्तुतः चत्वारो वेदाः सन्तीति अस्माभिः ज्ञायते । तेषां चतुर्णां वेदानां नैकाः शाखाः सन्तीति महाभाष्यकारैः पस्पशाह्निके लक्षितम् , यथा –
चत्वारो वेदाः साङ्गाः सरहस्या बहुधा भिन्ना एकशतमध्वर्युशाखाः सहस्रवर्त्मा सामवेदः एकविंशतिधावाहवृच्यं नवधाथर्वणोवेदः ।(पस्पशाह्निकम्)
तत्र पुनः यजुर्वेदे ब्रह्मादित्यरूपौ द्बौ सम्प्रदायौ वर्तेते । तदेव शुक्लकृष्णाविति भेदद्वयम् । प्रसङ्गेऽस्मिन् शुक्लकृष्णत्वे को हेतुः इति चेत् प्रतिज्ञासूत्रभाष्ये उक्तं यत् –
बुद्धिमालिन्यहेतुत्वाद्दयजुः कृष्णमितीर्यते ।
व्यवस्थितप्रकरणाद्यजुः शुक्लमितीर्यते ॥
तथा हि उक्तं च शातपथीयेब्राह्मणे — आदित्यादीनामानि शुक्लानि यजुंषि वाजसनेयेन याज्ञवल्कयेन आख्यायन्ते ।
एवं च समाजे वेदानामावशकतामभिलक्ष सङ्कलितानां संहितानां अक्षुर्णार्थं च महर्षि वादरायणव्यासः स्वशिष्यं पैलम् ऋग्वेदं, जैमिनीं सामवेदं, वैशम्पायनं यजुर्वेदं, सुमन्तुञ्च अथर्ववेदमपाठयत् इति श्रीमद्भागवते प्रथमस्कन्धे चतुर्थाध्याये एकविंशतितमे श्लोके वर्ण्यते –
तत्रार्ग्वेदधरः पैलस्सामगो जैमिनि कविः ।
वैशम्पायन एकैको निष्णातो यजुषामुत ॥
अथर्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः । श्री.भा., १०/४/२१
एवं प्रकारेण एते मुनयः पुनः स्वशिष्यान् अध्यापितवन्तः । तेन संहितानां अनेकाः शाखाः समुपजाताः ।तत्र लौगाक्षिभास्करेण अर्थ संग्रहे वेदानां प्रयोजनविषये इत्थमवादि यत् –
वेदवोधित इष्टसाधनताको धर्मः
यागानां वैशिष्ट्यम्
‘यज्ञशब्दः’ देवपूजा-सङ्गतिकरण-दानेषु इति देवपूजाद्यकर्थकाद् यज् धातोः यजयाचयतविच्छप्रच्चरक्षो नङ् इति पाणिनीयलक्षणाद् भावे नङ् प्रत्ययो भूत्वा प्रसिद्ध्यति । ‘यज्’ इत्यस्माद्धातोः ‘यजश्र्यायत-विच्छ-प्रच्छ-रक्षोनङ्’ इति पाणिनीयसुत्रानुसारेण भावार्थे ‘घञ्’ प्रत्यये कृते पुलिङ्गे यागशब्दः निष्पद्यते । धात्वर्थात् यज्ञशब्दः स्त्रिविधः भवति यथा विद्या ज्ञान धर्मानुष्ठानश्चेति । बृद्धानां देवानां विदूषाम् ऐहिकपारलौकिकसुखसम्पादनाय सत्करणं सम्यक् पदार्थगुणसम्मेल- विरोधज्ञानसङ्गत्या शिल्पविद्याप्रत्यक्षीकरणं नित्यविद्वत्समानुष्ठानं विद्यासुखधर्मादि शुभगुणानां नित्यं दानकरणमिति । यजुर्भाष्य,१-२
देवयुगे यज्ञानां प्रकल्पना अति महत्वपूर्णदृष्ट्या वैज्ञानिकाधारेण अभूत्, अतः प्रारम्भे प्रकल्पितानां यज्ञानां आधिदैविकजगती सह साक्षात् सम्बन्धः आसीत् । यथा अग्निहोत्रस्य अहोरात्रेण, दशपौर्णमासयो- कृष्णशुक्लपक्षयोः साकं, चातुर्मास्यानां त्रिभिऋतुर्भिः सह सम्बन्धः वर्तते । अग्निहोत्रदशपौर्णमासयोःआधिदैविकाख्यानं शतपथस्य एकादशकाण्डे उपलभ्यते । चातुर्मास्यानामुपरि ब्राह्मणग्रन्थे उक्तं यत् –
भैषज्य यज्ञो वा एते यच्चातुर्मास्यानि तस्मात् ऋतुसन्धिषु प्रयुज्यन्ते ।
ऋतुसन्धिषु हि व्याधिर्जायते इति कौशितकीब्राह्मणस्य पञ्चमाध्यायान्तर्गतप्रथमब्राह्मणे प्रोच्यते। वेदाङ्गकल्पसूत्रानुसारं तावत् देवतोद्देशेयेन द्रव्यत्यागो यागः इति नाम देवता उद्देश्येन द्रव्यत्यागरूपस्वत्वनिवृत्त्यनुकूलव्यापारो यागः । यागमिदं श्रौतस्मार्तभेदेन द्विधा विभज्यते । श्रुत्यानुदितं यागः श्रौतयागः तथा स्मृत्यानुदितं यागः स्मार्तयागः इति उच्यन्ते । तत्र श्रुतौ वैदिकानि कर्माणि पञ्चविधानि भवन्ति । यज्ञोऽपि अग्निहोत्र-दर्शपौर्णमासौ-चातुर्मास्यानि पशुः- सोमः इति पञ्चविधाः भवन्ति । स्मृतौ तु औपासना होम, वैश्वदेवम्, आम्रायणम्, पार्वणम्, अष्टकम्, मासिश्राद्धम्, श्रवणा, शुलगवश्चेति । तत्रापि सप्तपाकसंस्थाः सप्तहविर्यज्ञसंस्थाः भवन्ति । एवमेव श्रौतस्मार्तमाहत्य एकविंशतियज्ञाः भवन्ति । सत्सु एतेषु यागसंस्थाषु सौत्रामणियागस्य कश्चन विशिष्टतामभिलक्ष तस्य स्वरूपं चर्च्यते ।
सौत्रामणीयागः
सौत्रामणी नाम पशुयागः ( सुत्राम्ण इयं सौत्रामणी ) । यागोऽयं चरककौकीलभेदेन स्वतन्त्रोऽङ्गभूतश्चेति द्विविधः । यागचयनानन्तरं तदङ्गत्वेन अनुष्ठीयमाना सौत्रामणी अङ्गभूता । सा नित्या, काम्या, नैमित्तिकी चेति त्रिविधा । तत्र फलमनुदिश्य हविर्यज्ञः नित्या । समृद्धिफलोद्देशेन विधीयमाना काम्या । सोमवमनादिषु विहितमनुष्ठानं नैमित्तिकी इति ।
अधिकारः
स्वतन्त्रसौत्रामण्यां ब्राह्मणस्यैवाधिकारः । अङ्गभूतायां क्षत्रियवैशौ अधिकारिणौ । तत्र त्रयः पशवः एव भवन्ति । यथा अजो, मेष, ऋषभश्चेति । देवताश्च यथाक्रमेण अश्विनौ, सरस्वती, इन्द्रश्च भवन्ति । एतस्येव पशुसमुदायस्य सौत्रामणीति संज्ञाभवति । ”सोमेनेष्ट्वा हि सोत्रामण्या यजेत” । (श.ब्रा. 12/8/2/2) इति श्रुतिविधानम् । पुनश्च तत्रैव शतपथे उल्सिखितं यत् ‘सुत्रामा’ इति इन्द्रस्य नाम, तम् आपदि सरस्वती अश्विनौ च अत्रायन्त, तेन अस्य कर्मणो यागस्य सौत्रामणीति संज्ञा जाता । यथा च – तावाश्विनौ च सरस्वती च इन्द्रियं वीर्यं नमुचेराहृत्य तद् अस्मिन् पुनरधुस्तं पापं मनः अत्रायन्त ”सुत्रातं बैतेनं पाप्मनोऽत्रास्महीति” तद्भाव सौत्रामणी अभवत् इति । (श.ब्रा. 12/7/1/14) शतपथब्राह्मणस्य प्रामाण्यात् इदं ज्ञायते यत् पराजितस्य राज्ञोऽपि सौत्रामण्यामधिकारः । तत्रैवोक्तं यत् – ‘दुष्टरीतुर्ह पौसायनो दशपुरुषं राज्यादपरुद्ध आस । देवोत्तरसमूहपाटवं चाक्रं स्थपति सृञ्जया अपरूधुः। स होवाच दुष्टरीतुं पौसायनं सौत्रामण्या त्वया याजयानि यदिदं सृञ्जयेषु राष्ट्रं तत्त्वयी धास्यामीति तथैवैनमयाजयत् । तदु ह बह्लिकः प्रातिपीयः सुश्राव कौरव्यो राजा यो ह । (श.ब्रा., 12/9/3)’
ब्राह्मणोऽपि अग्निं चिक्यानः सोमयाजी सोमातिपूतः सोमवाये एव तत्र अधिक्रियते । सोमातिपूतः सोमवामी च ब्राह्मणः एव न हि क्षत्रियवैश्ययोः एतद्विशेषणं भवति इति कात्यायन श्रौतसूत्रभाष्यः । तथा च पशु योग्यः सन् यो नाम पशून् न विन्द्ते सो अलभ्यपशुरपशुः वैश्योपि सौत्रामण्याम् अधिकारीः आसीत् । पुराकाले पशुपालनमेव विशां प्रधानकर्मं अभवत् । एवं प्रकारेण यागाधिकारविषये उक्त्वा अधुना देवतापशुऋत्विजानां विषये प्रोच्यते ।
देवताः, पशवः, ऋत्विगादयश्च:
तत्र अङ्गभूता सौत्रामण्यां त्रयः पशवः अजोमेषऋषभश्च, देवताः क्रमेण अश्विनौ सरस्वती इन्द्रश्च भवन्ति । इमामेव च त्रिपशुकां सौत्रामणीं नित्यम् अभिदधातीति आपस्तम्वः । अन्या च कौकीलसौत्रामणीं पञ्चपशुका विहिता । तत्र प्रथमः पशुरैन्द्रः अन्तिमश्च वायोधसः एवं पूर्वोक्ताः त्रयः पशवश्च भवन्ति । सेयं कौकिलसौत्रामण्येव कात्यायनेन नीत्या इति अङ्गीकृतम् । दिनचतुष्ठयानुष्ठेयं क्रतुः । सौत्रामणी यागेऽस्मिन् प्रमुखतया अध्वर्युः, ब्रह्मा, होता, आग्निध्र, प्रतिप्रस्थाता, मैत्रावरुणश्चेति षड्ऋत्विजाः भवन्ति । अत्र त्रयः पयोग्रहाः त्रयः सुराग्रहाश्च भवन्ति । एतेषां ग्रहाणां देवताः क्रमेण अश्विनौ, सरस्वती, इन्द्रसुत्रामाश्चेति । यागेऽस्मिन् उत्तरदक्षिणभेदेन द्वे वेदीका भवतः । एवं होमद्रव्यं सुराऽपि भवति ।
कात्यायनश्रौतसूत्रानुसारं यागेऽस्मिन् प्रथमदिवसे द्वादश्यां प्रातरग्निहोत्रं हुत्वा अदिति देवताकश्चरुः अन्ते च आदित्यश्चरुः निरुप्यते । अस्य चरोः दक्षिणा भवति सवत्साधेनुः गौः वा । आपस्तम्बमते यागनिर्वपणकाले यजमानादयो अश्विन्यां सरस्वत्यै इन्द्राय सुत्राम्णे प्रभूतान् व्रीहीन् निर्वपन्ति ।
अधुना यागनिमित्तोऽयं सुरानिर्माणविधिः विवेच्यते ।
सुरानिर्माणविधिः
महर्षिआपस्तम्बमतानुसारं यजमानो यागस्य प्रथमदिवसे पूर्वोक्त कर्मं समाप्य सीसेन क्लीवाच्छष्पाणी क्रीत्वा क्षोमे वासस्युपनह्य उत्तरवेद्यां तानि निदधाति । तद्वते महर्षिकात्यायनमतानुसारं तानि चर्मणि निधीयन्ते । एतेषां मते शष्पाणि ब्रीहयो विरुढा उच्यन्ते, अपरेषां मते तोक्मायवा शष्पपदवाच्या भवन्ति । ततः नग्नहुचुर्णं तोक्मैस्सह संसृज्य मासरसंज्ञकं द्रव्यं निर्मीयते । कात्यायनशश्रौत्रसूत्रे नग्नहूचुर्ण निर्माणविधिः इत्थं प्रतिपादितम्,
यत् –
सत्वक् त्रिफला चैव शुण्ठी चैव पुनर्नवा ।
चतुर्जातिकसंयुक्ता पिप्पली गजपिप्पली ॥
वंशोऽवका बृहच्छत्रा चित्रकं चेन्द्रवारुणी ।
अश्वगन्धासमुत्पाट्य मूलान्येतानि विनर्दिशेत् ॥
धान्यकं च यवानीं च जीरकं कृष्णजीरकम् ।
द्वे हारिद्रे वचा विरुढा यवाः ॥ (का. श्रौ. भा. पृ- 947)
एवमेव संसृष्टे सुराद्रव्ये च ओदनं (उष्णं) संस्राव्य ततस्त्रिरात्रं कुभ्यां निधेयम्। तदनन्तरं तस्यां रात्रौ एकस्याः गोः पयसा-पाकृतेनाश्विने परिषिञ्चति तां सुराम्। सुरायां शष्पचूर्णानि चावपति, प्रातः सारस्वतमुद्दिश्य द्वयोः गवोः पयसा सुरां परिषिञ्चति, तोक्मचूर्णानि चावपति, तृतीये-हनि तिसृणां गवां दुग्धेन इन्द्रमुद्दिश्य तां सुरां परिषिञ्चति। अत्र लाजचुर्णानि आवपति। एवं सुरा संन्धानं भवति।
प्रतिप्रस्ताता द्वे वेदी वरुणप्रघासवत् करोति, तयोर्वेद्योः पश्चाद् भागे द्वौ खरौ क्रीयेते,द्वितीये खरे सुरा पूयते। चर्मणिपूतां सुरामादत्ते अध्वर्युः। चाध्वर्युः पालासेमहतिसताक्षे पात्रे अश्ववालपवित्रेण सूरांपुनाते उत्तरस्यां वेद्यां अजाविलोमपवित्रेण वैतसे पात्रे पयःपुनाति इति सुरानिर्माणविधिः।
ग्रहग्रहणम्
तत अध्वर्युः त्रीन् पयोग्रहान् गृह्णाति उपयाम गृहीतोसी इत्यनेन मन्त्रेण इतिचाध्वर्यु ग्रहं गृह्णाति, सारश्वत इति प्रतिप्रस्ताता आग्निध्रोवा ग्रहं गृह्णाति। तत्र कल्पे सुराग्रहस्ताने पयोग्रहा वा स्युः तथा चाह विद्याधरशर्मा कात्यायनश्रौतसूत्रस्य भूमिकायां अत्र सौत्रामण्यां पयोग्रहैः साकं सुराग्रहाणां विहितत्वेपि स्मृतिपुराणादौ सुराग्रहणमात्रस्य कलौ सर्वथा निषिद्धत्वात् सौत्रामण्यामपि सुराग्रहणस्य च संग्रहः तेषां निषेधकारणात् आसेतुहिमालयं शिष्टैः अनुष्ठानाच्च तदनुष्ठानं निन्द्यमिति। सौत्रामण्यनुष्ठानं तु पयोग्रहावा स्यु इत्यापस्तम्वेन सुराग्रह विकल्पतया पयोग्रहाणां विधानात् तदैवकर्तुं शक्यत इति । पयोग्रहेषु चाश्विनेग्रहे अध्वर्युः गोधूमकुवलचुर्णानिसारश्वतग्रहे ऐन्द्रवतचुर्णानि ऐन्द्रेग्रहेन्यग्रोधयव कर्कन्धुचूर्णानिचावपति । वृकव्याघ्रसिंहलोमभिश्च यथासंख्यं सुराग्रहान् श्रीणाति ततो ग्रहमुपतिष्टते युगपत् स्थालीभिश्च ग्रहान् व्यत्यासेनापि गृह्णान्ति । ततः पयो ग्रहं गृहीत्वा सुराग्रहान् पुनरपि व्यतिषिक्तान् गृह्णान्तीति श्रुतेः च वकुलसक्तुभिः सिंहलोमभिः च आश्विनं ग्रहम् , बदरशक्तुभिः शार्दूललोमभिश्च सारस्वतम्, कर्कन्धुसक्तुभिः वृकलोमभिश्चैन्द्रं ग्रहं श्रीणाति । एतेषां लोमाभावे सिंहादीन् यजमानादयो मनसा ध्यायन्ति । एको यूपः पशुबन्धनार्थं क्रियते । ग्रहग्रहणानन्तरं पयोग्रहान् सुराग्रहान् च अध्वर्युः जुहोति । ततो यजमानः सुरायाः पातारं ब्राह्मणं यजमानः परिक्रीणाति, तच्छेषां सुरां स ब्राह्मणः पिवति । परिक्रीतो वैश्यराजन्ययोरन्यतरः पिवति । अधर्युप्रतिप्रस्थाता अग्निध्र अश्विनं ग्रहं होतृ ब्रह्ममैत्रावरुणा सारस्वतं ग्रहं भक्षयन्ति । ऐन्द्रग्रहं यजमानो भक्षयति । तदनन्तरं ऋत्विक् यजमानाः पयोग्रहभक्षवत् वितानस्य दक्षिणपार्श्वे स्थिताः सौरान् ग्रहान् भक्षयन्ति ।
अध्वर्युः त्रीन् ग्रहान् पितृभ्यः जुहोति । अध्वर्युः शततृष्णां स्थालीं (कुम्भीं )प्रतिष्ठाप्य बालपवित्रं हिरण्यमन्तर्धाय नमकसूक्तं यजमानं वाचयति । तत्र यजमानः कुम्भ्याः स्रवन्तीं सुरामुपतिष्ठते, तदा यजमानो दक्षिणाग्नौ पयो जुहोति । शेषं यजमानः पिवति । एवं च आपस्तम्बकल्पे सौत्रामणेः विधानं वर्तते ।
ततः पशुपुरोडाशमैन्द्रं सावित्रं वारुणं दशकपालमध्वर्युः निर्वपति । बार्हस्पत्यं पशुपुरोडाशं निरूप्य ऐन्द्रमेकादशकपालं निर्वपति । यागान्ते यजमानः त्रयत्रिंशत् दक्षिणा ददाति । तच्चानुशिशुबडबधेनुं नाम निष्कमृषभं सात्वरीं बडबां शलमानौ वा दीयन्ते । ततः दक्षिणानन्तरं एकादशिनि पशुगणे यजमानः त्रयस्त्रिंशं वसाग्रहं गृह्णाति। ततः सामगानानन्तरं शास्त्रगानं ततो होमादि ततो मज्जनं विहितम् ।
एवमेव प्रबन्धविस्तरभयात् सौत्रामणीयागस्य स्वरूपविषये सूच्यग्रे सूचनामात्रं संसूच्य वाचावृक्षादवरूह्यते इति ओम् ।
अनुशीलितग्रन्थाः
१. काण्वसंहिता – सम्पादकः डॉ. वि रामचन्द्रशर्मा, वैदीकसंशोधन मण्डल , पुणे, १९९९
२. कात्यायनश्रौतसूत्रम् – श्रीविद्याधरशर्मा, चौखम्बासंस्कृप्रतिष्ठानम्, दिल्ली, द्वितीय संस्करण -२००५
३. यज्ञमीमांसा – श्रीवेणीराम शर्मा गौड, चौखम्बासंस्कृप्रतिष्ठानम्, वाराणसी,२०१२
४. यज्ञतत्त्वप्रकाशः – श्री चिन्नास्वामी शास्त्री, मोतिलाल वनारसीदास, १९९२
५. वैदिकसाहित्य का इतिहास – गजाननशास्त्री, चौखम्बासंस्कृप्रतिष्ठानम्, वाराणसी,२००५
६. वैदिकी यज्ञविद्या – कुंवरलाल जैन व्यासशिष्य, इतिहासविद्याप्रकाशनम्, दिल्ली, १९९१