वाल्मीकीये रामायणे बहुषु स्थानेषु तत्समये किं कर्तव्यं किमकर्तव्यम् इति शिक्षा मिलति, परस्परं द्वयोः जनयोः सम्वादरूपे लेखकस्य स्वगतविचारे वा। यथा अयोध्याकाण्डे श्रीरामः पितुः वचनानुसारेण स्वराज्याभिषेकं त्यक्त्वा सीतालक्ष्मणाभ्यां सह वनं प्रति गच्छति। भरतः कैकयराज्याद् अयोध्यायां/अयोध्यायां आगमने महाराजदशरथस्य देहान्तं श्रीरामस्य वनगमनं च शृणोति । सः कैकय्याः दुष्कृत्याय जननीं कुत्सयति स्वाक्रोशं च प्रदर्शयति ।
यदा भरतः तदवसरे कौशल्यां मिलति तदा सः चिन्तयति रामस्य वनगमनप्रसङ्गे माता कौशल्या मां प्रति किं चिन्तयति? किं माता कौसल्या मन्यति यद् अहमपि कैकय्याः दुष्कृते सम्मिलितो वा? एवं विचार्य भरतः माता कौसल्यां प्रति वदति सौगन्धं च गृह्णाति यद् अहम् अस्मिन् दुष्कृत्ये न सम्मिलितः। माता कौसल्या भरतं प्रति वदति —
इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम्।
संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा॥२.७५.११॥
प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम्।
कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी॥२.७५.१२॥
इदं हि तव विस्तीर्णं धनधान्यसमाचितम्।
हस्त्वश्वरथसम्पूर्णं राज्यं निर्यातितं तया॥२.७५.१६॥
तदा भरतः सौगन्धरूपेण बहूनि अकर्तव्यानि पातकानि च वदति यथा — यस्य कारणाद् आर्यः श्रीरामः वनं गतः सः एतत्पापफलं प्राप्नोति, अस्मिन् आलेखे वयं पश्यामः —
०१.
प्रेष्यं पापीयसां यातु सूर्यञ्च प्रतिमेहतु।
हन्तु पादेन गां सुप्तां यस्याऽर्योऽनुमते गतः॥२.७५.५५॥
सूर्यं च प्रति मेहतु — सूर्याभिमुखेन मूत्रपुरीषोत्सर्गकरणे महापातकं भवति। अतः सूर्याभिमुखेन मूत्रपुरीषोत्सर्गः न करणीय इति भावः।
हन्तु पादेन गां सुप्तां — गावो देवस्य मातरः अतः सुप्तां गां पादेन हननात् स्पर्शाच्च गोहननपापः भवति। अतः गोः पादस्पर्शने महापातकं भवति।
०२.
कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम्।
अधर्मो योऽस्य सोऽस्यास्तु यस्याऽर्योऽनुमतेगतः॥२.७५.२३॥
भर्ता भृत्यमनर्थकम् — यदि भर्ता भृत्यस्य अर्थः (पारिश्रमिकः) न ददाति सः महापातकी भवति। अतः कार्यस्य कृते पारिश्रमिकः अवश्यमेव दातव्यः ।
०३.
परिपालयमानस्य राज्ञो भूतानि पुत्रवत्।
ततस्नु द्रुह्यतां पापं यस्याऽर्योऽनुमते गतः॥२.७५.२४॥
ततस्नु दुह्यतां पापं — यः राजा पुत्रवत् प्रजापालनं करोति तं प्रति द्रोहः (राजद्रोहः) पाप इति अतः सुराजानं प्रति द्रोहः न करणीयः ।
०४.
बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः।
अधर्मो योऽस्य सोऽस्यास्तु यस्यार्थोऽनुमते गतः॥२.७५.२५॥
बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः — यः राजा राज्यस्य (प्रजायाः) रक्षणार्थं राज्यकरं उद्धरति, सः राजा यदि करप्राप्तौ अपि प्रजारक्षणं न करोति तर्हि पापः भवति ।
०५.
संश्रुत्य च तपस्विभ्यस्सत्रे वै यज्ञदक्षिणाम्।
तां विप्रलपतां पापं यस्यार्योऽनुमते गतः॥२.७५.२६॥
यज्ञदक्षिणां विप्रलपतां पापम् — तपस्विभ्यः यज्ञकारयितृभ्यः ऋत्विग्भ्यः दक्षिणां यः यजमानः न ददाति सः पापं सञ्चयति। अतः यज्ञादेः सम्पूर्णे सति ऋत्विग्भ्यः (याजकाय) दक्षिणा अवश्यमेव दातव्या। कथनम् अस्ति —
०६.
दक्षिणा विप्रमुद्दिश्य तत्काले तु न दीयते ।
एकरात्रे व्यतीते तु तद्दानं द्विगुणं भवेत ॥
मासे शतगुणं प्रौक्तं द्विमासे तु सहस्त्रकम् ।
संवत्सरे व्यतीते तु स दाता नरकं व्रजेत ॥
हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले।
मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः॥२.७५.२७॥
युद्धे मा स्म कार्षीत्सतां धर्मम् — यदि कस्यचिद् योद्धा रणक्षेत्रे अश्वगजशस्त्रैः सुसज्जितोऽपि स्वकीयं युद्धधर्मं न पालयति तर्हि सः पापं सञ्चयति।
०७.
उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता।
स नाशयतु दुष्टात्मा यस्याऽर्योऽनुमते गतः॥२.७५.२८॥
उपदिष्टं सुसूक्ष्मार्थं नाशयतु दुष्टात्मा — यः दुष्टात्मा अतिप्रयत्नेन उपदिष्टं सुसूक्ष्मार्थं बुद्धिविषयरहितत्वं शास्त्रम् अभ्यासाभावेन नाशयति सः पापं करोति।
०८.
पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः।
गुरूंश्चाप्यवजानातु यस्याऽर्योऽनुमते गतः॥२.७५.३०॥
वृथा सोऽश्नातु निर्घृणः — देवतापित्रतिथिपरमात्मसमर्पणमन्तरेण यः पायसं कृसरं इत्यादिकं अश्नाति गुरून् पित्रादींश्च अवजानाति (अनादरं करोति) सः अवज्ञाजनितपापं प्राप्नोति। अतः भोजनं प्रसादरूपेण परमात्मसमर्पणमनन्तरं हि ग्रहणीयम्।
०९.
गाश्च स्पृशतु पादेन गुरून्परिवदेत्स्वयम्।
मित्रे द्रुह्येत सोऽत्यन्तं यस्याऽर्योऽनुमते गतः॥२.७५.३१॥
गाश्च स्पृशतु पादेन, गुरून्परिवदेत्स्वयम्, मित्रे द्रुह्येत — मित्रद्रोहः गुरुनिन्दा गा: पादेन स्पर्शनं इत्येते सर्वे पापाचाराः। अतः न करणीयनि इति।
१०.
विश्वासात्कथितं किञ्चित्परिवादं मिथः क्वचित्।
विवृणोतु स दुष्टात्मा यस्याऽर्योऽमते गतः॥२.७५.३२॥
विश्वासात्कथितं किञ्चित्परिवादं मिथः विवृणोतु स दुष्टात्मा — विश्वासात् कथितं मित्रस्य रहस्यं (अपवादं वा) यदि कोऽपि प्रकटं करोति तर्हि सः दुष्टात्मा पापं करोति।
११.
अकर्ता ह्यकृतज्ञश्च त्यक्ताचाऽत्मा निरपत्रपः।
लोके भवतु विद्विष्टो यस्यार्योऽनुमते गतः॥२.७५.३३॥
अकर्ता ह्यकृतज्ञश्च त्यक्ताचाऽत्मा निरपत्रपः — लोके प्रत्युपकारस्याकर्त्ता अकृतज्ञः (कृतघ्नः) त्यक्त: निर्लज्जः घृणित: पापाचारी च भवति। एते अवगुणाः पापं ददति।
१२.
पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः।
स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः॥२.७५.३४॥
एको मृष्टमश्नातु — पुत्रादिभि: स्वगृहे परिवारितो भृत्यैः युक्तोऽपि एक एव मृष्टं अश्नाति सः पापं करोति। अतः अन्नमेव परमात्मसमर्पणमनन्तरं परिवारेऽपि यथायोग्यं वितरणं कृत्वा हि अश्नातु।
१३.
राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते।
भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम्॥२.७५.३७॥
राजस्त्रीबालवृद्धानां वधे भृत्यत्यागे च यत्पापं — राजस्त्री बाल वृद्धानां च वधः पापः भृत्यत्यागः अपि पापः अतः इत्येतानि पापानि न करणीयानि।
१४.
लाक्षया मधुमांसेन लोहेन च विषेण च।
सदैव बिभृयाद्भृत्यान्यस्यार्योऽनुमते गतः॥२.७५.३८॥
लाक्षया मधुमांसेन लोहेन च विषेण चसदैव बिभृयाद् — यः लाक्षया मधुना (मदिरया इत्यर्थः) मांसेन लौहेन विषव्यापारेण च (लाक्षादिनिषिद्धक्रयविक्रयादिलब्धद्रव्यादिना) परिवारपालनं करोति सः पापी भवति। “लाक्षालवणमांसानि वर्जनीयानि विक्रये” इति स्मृते:।
१५.
संग्रामे समुपोढे स्म शत्रुपक्षभयङ्करे।
पलायमानो वध्येत यस्यार्योऽनुमते गतः॥२.७५.३९॥
संग्रामे पलायमानो वध्येत — शत्रुपक्षाद् भयङ्करे सङ्ग्रामे सम्प्राप्ते यः पलायमानः वध्येत सः पापं प्राप्नोति।
१६.
उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते।
तच्चपापं भवेत्तस्य यस्यार्योऽनुमते गतः॥२.७५.४४॥
उभे सन्ध्ये शयानस्य — प्रातः सायं उभयो: सन्ध्ययोः शयनं अपि पापकर्म। स्मृत्यानुसारेण सन्ध्यायां गायत्रीसूर्यजपः करणीय अर्घ्यं च दातव्यं न तु शयनं करणीयम्।
१७.
यदग्निदायके पापं यत्पापं गुरतल्पगे।
मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम्॥२.७५.४५॥
अग्निदायके पापं गुरतल्पगे मित्रद्रोहे च — अग्निदाहः मित्रद्रोहः गुरुपत्नीं गमनं च पापाचाराः।
हिन्दी भाषान्तर
वाल्मीकि रामायण में बहुत से स्थानों दो जनों के संवाद के रूप में या लेखक के स्वगत विचार के रूप में, उस समय के, क्या कर्तव्य हैं क्या अकर्तव्य हैं इसकी शिक्षा मिलती है। जैसे अयोध्या काण्ड में श्रीराम पिता के वचनों के अनुसार अपना राज्याभिषेक छोड़कर सीता और लक्ष्मण के साथ वन चले जाते हैं। जब भरत कैकय राज्य से अयोध्या के लिए आते हैं तथा महाराज दशरथ के देहान्त और श्रीराम के वन गमन के बारे में सुनते हैं, तब वह कैकई के इस दुष्कृत्य को जानकर उसको कोसते हैं और अपने आक्रोश का प्रदर्शन करते हैं।
जब भरत इस अवसर पर कौशल्या से मिलते हैं तब वह सोचते हैं कि राम के वन-गमन के प्रसंग में माता कौशल्या मेरे प्रति क्या सोचती होंगी, क्या माता कौशल्या मानती हैं कि मैं भी कैकई के दुष्कर्म में सम्मिलित हूँ। ऐसा सोचकर भरत माता कौशल्या के प्रति कई सारी सौगंध लेते हैं कि मैं इस दुष्कृत्य में सम्मिलित नहीं हूँ। वहाँ माता कौशल्या भरत से कहती हैं —
इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम्।
संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा॥२.७५.११॥
प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम्।
कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी॥२.७५.१२॥
इदं हि तव विस्तीर्णं धनधान्यसमाचितम्।
हस्त्वश्वरथसम्पूर्णं राज्यं निर्यातितं तया॥२.७५.१६॥
तब भरत सौगंध के रूप में बहुत से अकर्तव्य और पातकों के बारे में बोलते हैं यथा — जिसके कारण आर्य श्रीराम वन को गए हैं उसको ऐसा पाप फल मिले इत्यादि। इस आलेख में हम यही देखेंगे —
०१.
प्रेष्यं पापीयसां यातु सूर्यञ्च प्रतिमेहतु।
हन्तु पादेन गां सुप्तां यस्याऽर्योऽनुमते गतः॥२.७५.५५॥
सूर्यं च प्रति मेहतु — सूर्य की ओर मुंह करके मूत्र और मल त्याग करना महापाप होता है अतः सूर्यमुख हो कर मूत्र और मल त्याग नहीं करना चाहिए ऐसा भाव है।
हन्तु पादेन गां सुप्तां — गाय देवताओं की माता है अतः सोती हुई गाय को पैर से स्पर्श करना या मारना गौ हत्या के समान पाप होता है अतः गाय को पैर से स्पर्श करने से महापाप होता है।
०२.
कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम्।
अधर्मो योऽस्य सोऽस्यास्तु यस्याऽर्योऽनुमतेगतः॥२.७५.२३॥
भर्ता भृत्यमनर्थकम् — यदि स्वामी अपने दास/ भृत्य को बड़े कार्य का पारिश्रमिक नहीं देता है तो वह महापातकी होता है। अतः कार्य के बदले में पारिश्रमिक अवश्य देना चाहिए।
०३.
परिपालयमानस्य राज्ञो भूतानि पुत्रवत्।
ततस्नु द्रुह्यतां पापं यस्याऽर्योऽनुमते गतः॥२.७५.२४॥
ततस्नु दुह्यतां पापं — जो राजा अपनी प्रजा का पुत्र की तरह से पालन करता है, उसके प्रति द्रोह अर्थात राजद्रोह पाप होता है। अतः अच्छे राजा के प्रति द्रोह नहीं करना चाहिए।
०४.
बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः।
अधर्मो योऽस्य सोऽस्यास्तु यस्यार्थोऽनुमते गतः॥२.७५.२५॥
बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः — जो राजा छठा भाग राज्यकर प्रजा की रक्षा के लिए लेकर भी यदि प्रजा की रक्षा नहीं करता है तो पाप होता है।
०५.
संश्रुत्य च तपस्विभ्यस्सत्रे वै यज्ञदक्षिणाम्।
तां विप्रलपतां पापं यस्यार्योऽनुमते गतः॥२.७५.२६॥
यज्ञदक्षिणां विप्रलपतां पापम् — जो यजमान तपस्वियों को, यज्ञ कराने वालों को, ऋत्विजों को दक्षिणा नहीं देता है वह पाप एकत्र करता है। अतः यज्ञ आदि के सम्पूर्ण होने पर ऋत्विजों को, याजकों को दक्षिणा अवश्य देनी चाहिए। ऐसा कथन है —
०६.
दक्षिणा विप्रमुद्दिश्य तत्काले तु न दीयते ।
एकरात्रे व्यतीते तु तद्दानं द्विगुणं भवेत ॥
मासे शतगुणं प्रौक्तं द्विमासे तु सहस्त्रकम् ।
संवत्सरे व्यतीते तु स दाता नरकं व्रजेत ॥
हस्त्यश्वरथसम्बाधे युद्धे शस्त्रसमाकुले।
मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः॥२.७५.२७॥
युद्धे मा स्म कार्षीत्सतां धर्मम् — यदि कोई योद्धा युद्ध-क्षेत्र में घोड़ों, हाथियों, शस्त्रों से सुसज्जित होने के बाद भी अपने युद्ध धर्म का पालन नहीं करता है तो वह पापों को सञ्चित करता है।
०७.
उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता।
स नाशयतु दुष्टात्मा यस्याऽर्योऽनुमते गतः॥२.७५.२८॥
उपदिष्टं सुसूक्ष्मार्थं नाशयतु दुष्टात्मा — जो दुष्ट (गुरु द्वारा) बहुत प्रयत्न से उपदेश किया हुआ, सूक्ष्म अर्थ वाला, शास्त्रों का बिना बुद्धि के और बिना अभ्यास के नाश कर देता है वह पाप करता है।
०८.
पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः।
गुरूंश्चाप्यवजानातु यस्याऽर्योऽनुमते गतः॥२.७५.३०॥
वृथा सोऽश्नातु निर्घृणः — जो मूर्ख, देवता पितृ, अतिथि, परमात्मा को समर्पण किए बिना ही खीर, फल, खिचड़ी इत्यादि खाता है और गुरुओं, पितृ इत्यादियों का अनादर करता है, वह अवज्ञा जनित पाप प्राप्त करता है। अतः भोजन को प्रसाद के रूप में परमात्मा को समर्पण कर उसके बाद ही ग्रहण करना चाहिए।
०९.
गाश्च स्पृशतु पादेन गुरून्परिवदेत्स्वयम्।
मित्रे द्रुह्येत सोऽत्यन्तं यस्याऽर्योऽनुमते गतः॥२.७५.३१॥
गाश्च स्पृशतु पादेन, गुरून्परिवदेत्स्वयम्, मित्रे द्रुह्येत — मित्र से द्रोह करना, गुरु की निंदा करना और गाय को पैरों से छूना यह सभी पाप के आचरण हैं। अतः इन्हें नहीं करना चाहिए।
१०.
विश्वासात्कथितं किञ्चित्परिवादं मिथः क्वचित्।
विवृणोतु स दुष्टात्मा यस्याऽर्योऽमते गतः॥२.७५.३२॥
विश्वासात्कथितं किञ्चित्परिवादं मिथः विवृणोतु स दुष्टात्मा — किसी मित्र के विश्वास को घात करते हुए मित्र के रहस्य को यदि कोई प्रकट करता है, तो वह दुष्ट पाप ही करता है।
११.
अकर्ता ह्यकृतज्ञश्च त्यक्ताचाऽत्मा निरपत्रपः।
लोके भवतु विद्विष्टो यस्यार्योऽनुमते गतः॥२.७५.३३॥
अकर्ता ह्यकृतज्ञश्च त्यक्ताचाऽत्मा निरपत्रपः — संसार में उपकार करने वाले के प्रति कृतज्ञता न प्रदर्शित कर कृतघ्न होना निर्लज्ज होना घृणित और पाप है। ऐसे अवगुण पाप ही देते हैं।
१२.
पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः।
स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः॥२.७५.३४॥
एको मृष्टमश्नातु — अपने परिवार में, अपने घर में पुत्र, दास इत्यादियों के होने पर भी जो अकेला ही खाता है वह पाप करता है। अतः अन्न को परमात्मा को समर्पण कर, परिवारी जनों को यथा योग्य वितरण कर ही स्वयं खाए।
१३.
राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते।
भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम्॥२.७५.३७॥
राजस्त्रीबालवृद्धानां वधे भृत्यत्यागे च यत्पापं — राजस्त्री, बालक और वृद्धों का वध पाप है। दासों, सेवकों को (निरपराध) त्याग कर देना भी पाप है (क्योंकि वे शरणागत हैं) अतः इन पापों के कारणों को नहीं करना चाहिए।
१४.
लाक्षया मधुमांसेन लोहेन च विषेण च।
सदैव बिभृयाद्भृत्यान्यस्यार्योऽनुमते गतः॥२.७५.३८॥
लाक्षया मधुमांसेन लोहेन च विषेण चसदैव बिभृयाद् — जो अपने परिवार का पालन लाख, मदिरा, मांस, लोहे या विष के व्यापार से करता है वह पापी होता है । “लाक्षालवणमांसानि वर्जनीयानि विक्रये” ऐसा स्मृतियों में वचन है।
१५.
संग्रामे समुपोढे स्म शत्रुपक्षभयङ्करे।
पलायमानो वध्येत यस्यार्योऽनुमते गतः॥२.७५.३९॥
संग्रामे पलायमानो वध्येत — भयंकर संग्राम में होने पर भी शत्रु के पक्ष में, जो युद्ध से भाग जाता है वह पाप को प्राप्त करता है।
१६.
उभे सन्ध्ये शयानस्य यत्पापं परिकल्प्यते।
तच्चपापं भवेत्तस्य यस्यार्योऽनुमते गतः॥२.७५.४४॥
उभे सन्ध्ये शयानस्य — प्रातः और सायं दोनों सन्ध्याओं के समय में शयन वर्जित है और पाप कर्म है। स्मृतियों के अनुसार सन्ध्याओं के समय में गायत्री और सूर्य का जप करना, अर्घ्य देना ही प्रशस्त है शयन करना नहीं।
१७.
यदग्निदायके पापं यत्पापं गुरतल्पगे।
मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम्॥२.७५.४५॥
अग्निदायके पापं गुरतल्पगे मित्रद्रोहे च — आग से जलाना, मित्र से द्रोह करना और गुरु-पत्नी के साथ समागम करना ये सभी पाप के आचरण है अतः नहीं करने चाहिए।